Hebrews8san_dev

1कथ्यमानानां वाक्यानां सारोऽयम् अस्माकम् एतादृश एको महायाजकोऽस्ति यः स्वर्गे महामहिम्नः सिंहासनस्य दक्षिणपार्श्वो समुपविष्टवान्2यच्च दूष्यं न मनुजैः किन्त्वीश्वरेण स्थापितं तस्य सत्यदूष्यस्य पवित्रवस्तूनाञ्च सेवकः स भवति।3यत एकैको महायाजको नैवेद्यानां बलीनाञ्च दाने नियुज्यते, अतो हेतोरेतस्यापि किञ्चिद् उत्सर्जनीयं विद्यत इत्यावश्यकं।4किञ्च स यदि पृथिव्याम् अस्थास्यत् तर्हि याजको नाभविष्यत्, यतो ये व्यवस्थानुसारात् नैवेद्यानि ददत्येतादृशा याजका विद्यन्ते।5ते तु स्वर्गीयवस्तूनां दृष्टान्तेन छायया च सेवामनुतिष्ठन्ति यतो मूससि दूष्यं साधयितुम् उद्यते सतीश्वरस्तदेव तमादिष्टवान् फलतः स तमुक्तवान्, यथा, "अवधेहि गिरौ त्वां यद्यन्निदर्शनं दर्शितं तद्वत् सर्व्वाणि त्वया क्रियन्तां।"6किन्त्विदानीम् असौ तस्मात् श्रेष्ठं सेवकपदं प्राप्तवान् यतः स श्रेष्ठप्रतिज्ञाभिः स्थापितस्य श्रेष्ठनियमस्य मध्यस्थोऽभवत्।7स प्रथमो नियमो यदि निर्द्दोषोऽभविष्यत तर्हि द्वितीयस्य नियमस्य किमपि प्रयोजनं नाभविष्यत्।8किन्तु स दोषमारोपयन् तेभ्यः कथयति, यथा, "परमेश्वर इदं भाषते पश्य यस्मिन् समयेऽहम् इस्रायेलवंशेन यिहूदावंशेन च सार्द्धम् एकं नवीनं नियमं स्थिरीकरिष्याम्येतादृशः समय आयाति।9परमेश्वरोऽपरमपि कथयति तेषां पूर्व्वपुरुषाणां मिसरदेशाद् आनयनार्थं यस्मिन् दिनेऽहं तेषां करं धृत्वा तैः सह नियमं स्थिरीकृतवान् तद्दिनस्य नियमानुसारेण नहि यतस्तै र्मम नियमे लङ्घितेऽहं तान् प्रति चिन्तां नाकरवं।10किन्तु परमेश्वरः कथयति तद्दिनात् परमहं इस्रायेलवंशीयैः सार्द्धम् इमं नियमं स्थिरीकरिष्यामि, तेषां चित्ते मम विधीन् स्थापयिष्यामि तेषां हृत्पत्रे च तान् लेखिष्यामि, अपरमहं तेषाम् ईश्वरो भविष्यामि ते च मम लोका भविष्यन्ति।11अपरं त्वं परमेश्वरं जानीहीतिवाक्येन तेषामेकैको जनः स्वं स्वं समीपवासिनं भ्रातरञ्च पुन र्न शिक्षयिष्यति यत आक्षुद्रात् महान्तं यावत् सर्व्वे मां ज्ञास्यन्ति।12यतो हेतोरहं तेषाम् अधर्म्मान् क्षमिष्ये तेषां पापान्यपराधांश्च पुनः कदापि न स्मरिष्यामि।"13अनेन तं नियमं नूतनं गदित्वा स प्रथमं नियमं पुरातनीकृतवान्; यच्च पुरातनं जीर्णाञ्च जातं तस्य लोपो निकटो ऽभवत्।