1CO13san_dev

1मर्त्यस्वर्गीयाणां भाषा भाषमाणोऽहं यदि प्रेमहीनो भवेयं तर्हि वादकतालस्वरूपो निनादकारिभेरीस्वरूपश्च भवामि।2अपरञ्च यद्यहम् ईश्वरीयादेशाढ्यः स्यां सर्व्वाणि गुप्तवाक्यानि सर्व्वविद्याञ्च जानीयां पूर्णविश्वासः सन् शैलान् स्थानान्तरीकर्त्तुं शक्नुयाञ्च किन्तु यदि प्रेमहीनो भवेयं तर्ह्यगणनीय एव भवामि।3अपरं यद्यहम् अन्नदानेन सर्व्वस्वं त्यजेयं दाहनाय स्वशरीरं समर्पयेयञ्च किन्तु यदि प्रेमहीनो भवेयं तर्हि तत्सर्व्वं मदर्थं निष्फलं भवति।4प्रेम चिरसहिष्णु हितैषि च, प्रेम निर्द्वेषम् अशठं निर्गर्व्वञ्च।5अपरं तत् कुत्सितं नाचरति, आत्मचेष्टां न कुरुते सहसा न क्रुध्यति परानिष्टं न चिन्तयति,6अधर्म्मे न तुष्यति सत्य एव सन्तुष्यति।7तत् सर्व्वं तितिक्षते सर्व्वत्र विश्वसिति सर्व्वत्र भद्रं प्रतीक्षते सर्व्वं सहते च।8प्रेम्नो लोपः कदापि न भविष्यति, ईश्वरीयादेशकथनं लोप्स्यते परभाषाभाषणं निवर्त्तिष्यते ज्ञानमपि लोपं यास्यति।9यतोऽस्माकं ज्ञानं खण्डमात्रम् ईश्वरीयादेशकथनमपि खण्डमात्रं।10किन्त्वस्मासु सिद्धतां गतेषु तानि खण्डमात्राणि लोपं यास्यन्ते।11बाल्यकालेऽहं बाल इवाभाषे बाल इवाचिन्तयञ्च किन्तु यौवने जाते तत्सर्व्वं बाल्याचरणं परित्यक्तवान्।12इदानीम् अभ्रमध्येनास्पष्टं दर्शनम् अस्माभि र्लभ्यते किन्तु तदा साक्षात् दर्शनं लप्स्यते। अधुना मम ज्ञानम् अल्पिष्ठं किन्तु तदाहं यथावगम्यस्तथैवावगतो भविष्यामि।13इदानीं प्रत्ययः प्रत्याशा प्रेम च त्रीण्येतानि तिष्ठन्ति तेषां मध्ये च प्रेम श्रेष्ठं।